वांछित मन्त्र चुनें

यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः । स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥

अंग्रेज़ी लिप्यंतरण

yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ | sahasrasām medhasātāv iva tmanāgniṁ dhībhiḥ saparyata ||

पद पाठ

यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः । स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥ ८.१०३.३

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:3 | अष्टक:6» अध्याय:7» वर्ग:13» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:3